अत्र अनुशीलनाय केचन संवादपाठा: दीयन्ते । छात्रा: एतेषां अनुशीलनं कुर्यु: । एतत् विशेषत: नवम दशम कक्षाछात्राणां कृते उपकारकं भवेत् ।

माता – पुत्रि ! किं स्नानगृहे उष्णतोयं निक्षिप्तं वा ?

पुत्री – आम् , मात: ! पितामहाय स्नानार्थम् उष्णतोयं मया स्नानगृहे निक्षिप्तम् ।

माता – तर्हि पितामहं कथय ……………………………………… इति ।

पुत्री – आम् , मात: ! इदानीमेव कथयामि ।

माता – तत्र गत्वा पश्य स्नानगृहे फेनकं अस्ति वा इति ।

पुत्री – मात: ! तत्र ………………. एकं फेनकं अस्ति ।

माता – स्नानानन्तरं स: बहि: गन्तुम्  इच्छति ।

पुत्री – स: ……………………………. ?

माता – मन्ये स: शिवालयं गच्छतीति ।

पुत्री – शिवालये अद्य क: विशेष: ?

माता – अद्य तत्र ………………………. वर्तते ।

उत्तरसूचिका –

१ नवीनम्       २   उष्णतोयं निक्षिप्तम्   ३ विशेषपूजा   ४   कुत्र गच्छति  ?

द्वितीय: संवाद:

( गृहम् आगतं अतिथिं प्रति गृहस्था )

गृहस्था – श्रीमन्  ! अन्त: आगच्छतु , आसने उपविशतु च । भवते पानाय उष्णजलं वा शीतजलं रोचते ?

अतिथि: – मह्यं ……………………….. रोचते ।

गृहस्था – तर्हि …………………. आनयामि ।

अतिथि: – चायपेयं चेत्  शर्करा नैव आवश्यकी ।

गृहस्था – भवान् अत्र कस्य दर्शनाय आगत: ?

अतिथि: – अहम् अत्र भवत्या: पतिं सुरेन्द्रं द्रष्टुम् आगत: अस्मि ।

गृअस्था – क्षम्यतु भवान् , स: तु अत्र नास्ति । प्रात: एव ………………….. गतवान् ।

अतिथि: – स: …………………………………… ?

गृहस्था – स: तु सायं पञ्चवादने एव प्रत्यागमिष्यति ।

अतिथि: – यदा सुरेन्द्र: प्रत्यागच्छति तदा एवं कथयतु यत् तस्य मित्रं सोमदेव: आगच्छत् इति ।

इदानीं अहं गन्तुमिच्छामि । पुन: द्वित्रि दिनानन्तरं आगमिष्यामि ।

उत्तरसूचिका –      १  कदा प्रत्यागच्छति ?   २  उष्णपेयं   ३ आपणं   ४  चायपेयम्  ।

            अत्र कर्तृपद क्रियापद चयनाय केचन प्रश्ना: दीयन्ते ।

वाक्येषु कर्तृपदानि चिनुत ।

१   बालका:  उद्याने  कन्दुकेन क्रीडन्ति ।

२  यूयं सर्वे  वृक्षस्य अध:  उपविशत ।

३   वयम्  अद्य  भोजनं   न आनयाम  ।

४  एषा   बालिका   मधुरं गायति ।

 

 

५  अद्य  कक्षायां  कति   छात्रा:  अनुपस्थिता: ?

 

 

 

 

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s