नास्ति त्यागसमम् सुखम् – पाठाभ्यासा:

वार्तालापं उचितपदै: पूरयत

आचार्या प्रविशति । बाला: उत्तिष्ठन्ति ।

छात्रा: – आर्ये वन्दामहे ।

आचार्या – बाला: चिरं जीवत उपविशत ।

कपिल! भगवान् बोधिसत्व: केषां राजा बभूव ?

कपिल: – मान्ये ! बोधिसत्व: शिबीनां राजा बभूव ।

आचार्या –नमन !  राजा: का: पुत्रवत् पालयति स्म ?

नमन: – आर्ये ! राजा प्रजा: पुत्रवत् पालयति स्म ।

आचार्या – उमे ! कस्य समन्तात् राजा दानशाला: अकारयत् ?

उमा – राजा नगरस्य समन्तात् दानशाला: अकारयत् ।

आचार्या – दिव्ये ! केषां समूह: सन्तुष्ट: अभवत् ?

दिव्या – अर्थिनां समूह: सन्तुष्ट: अभवत् ।

  • आचार्या – नीरजे !शक्र: कस्य रुपं धृत्वा राज्ञ: दानशीलतां परीक्षितुम् आगत: ?
  • नीरजा – शक्र: नेत्रहीनयाचकस्य रुपं धृत्वा राज्ञ: दानशीलतां परीक्षितुम् आगत: ।
  • आचार्या – लोकेश ! राज्ञ: नेत्रदानार्थं निश्चयं ज्ञात्वा के विषण्णा: आसन् ?
  • लोकेश: – राज्ञ: नेत्रदानार्थं निश्चयं ज्ञात्वा अमात्या: विषण्णा: आसन् ।
  • आचार्या – अक्षय ! निधनैकनिष्ठं किम् ?
  • अक्षय: – अदीयमानं निधनैकनिष्ठं भवति ।
  • आचार्या – कोविद! कस्य प्रभावेण एकं चक्षु: प्रतिष्ठितम् अभवत् ?
  • कोविद: – शक्रस्य प्रभावेण एकं चक्षु: प्रतिष्ठितम् अभवत् ।

      २  एकवाक्येन उत्तरत ।

  • १ बोधिसत्व: शैशवात् एव कीदृस: आसीत् ?
  • बोधिसत्व: शैशवात् एव वृद्धोपसेवी , विनयशील: शास्त्रपारङ्गत: च आसीत् ।
  • २ शिबे: राज्ये याचका: किं लब्ध्वा सन्तुष्टा: अभवन् ?
  • शिबे: राज्ये याचका: अन्न-पान-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि लब्ध्वा सन्तुष्टा: अभवन् ।

३ नेत्रहीनयाचकस्य रूपं धृत्वा शक्र: बोधिसत्वं किमवदत् ?

 नेत्रहीनयाचकस्य रूपं  धृत्वा शक्र: बोधिसत्वम् – देव! रवि-    शशि-तारा-मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीन: इति अवदत् ।

  • ४ सकलं ब्रह्माण्डं किं ज्ञात्वा व्याकुलं जातम्?
  • सकलं ब्रह्माण्डं राज्ञ: स्वेषु गात्रेष्वपि निरासक्तिं ज्ञात्वा व्याकुलं जातम् ।
  • ५ राजा प्रीत्या याचकाय किं समर्पितवान् ?
  • राजा प्रीत्या याचकाय स्वकीयं नेत्रद्वयं समर्पितवान् ।
  • ३ स्थूलपदानि आधृत्य प्रश्ननिर्माणम् ।
  • १ अभीष्टवस्तूनि प्राप्य याचका: तुष्टा: आसन् ।
  • अभीष्टवस्तूनि प्राप्य के तुष्टा: आसन् ?
  • २ दानशालासु विचरन् राजा अचिन्तयत् ।
  • कुत्र विचरन् राजा अचिन्तयत् ?
  • ३ राजा पुत्रवत् प्रजा: पालयति स्म ।
  • राजा पुत्रवत् का: पालयति स्म ?
  • ४ स राजा तान् उवाच ।       स राजा कान् उवाच  ?
  • ५ राजा याचकेभ्य: दानं ददाति स्म ।
  • राजा केभ्य: दानं ददाति स्म।

४ एतानि वाक्यानि केन कं प्रति उक्तानि ?

  • क ) आदिश्यतां किं करवाणि ?
  • राजा        नेत्रहीनयाचकम्
  • ख ) भो ! किमेकेन चक्षुषा ?
  • राजा       नेत्रहीनयाचकम् ।
  • ग ) अलम् एतावता दुस्साहसेन ।
  • अमात्या:      राजानम् ।
  • घ ) नाहं स्वर्गं मोक्षं वा कामये ।
  • राजा        अमात्यान् ।
  • ङ ) वरं वृणीष्व राजर्षे ! यदिच्छसि तदुच्यताम् ।
  • शक्र:      राजानम् ।

५  वाक्यानि उचितभावै: सह मेलयत ।

  • १ असौ पुत्रवत् प्रजा: पालयति स्म ।
  • स्नेह: ।
  • २ स: नगरस्य समन्तत: दानशाला: अकारयत् ।
  • उदारता ।
  • ३ ममार्थिनस्तु धनलाभमात्रेण सन्तोषं लभन्ते ।
  • निराशा ।
  • ४ राज्ञ: नेत्रदाननिश्चयं ज्ञात्वा अमात्या: विशण्णा: जाता :।
  • दु:खम् ।
  • ५ अहं भवते चक्षुर्द्वयमेव प्रयच्छामि ।
  • दानवीरता ।

६ सूक्तीनां समानार्थयुक्ता: पाठान्तर्गता: पङ्क्तय: ।

  • १ न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।
  •                             नाहं स्वर्गं मोक्षं वा कामये ।
  • २ हुतं च दत्तं च सदैव तिष्ठति ।
  •                                निधानतां याति हि दीयमानम् ।
  • ३ क्षयमायाति सञ्चयात् ।
  •                                 अदीयमानं निधनैकनिष्ठम् ।
  • ७ समुचितभावार्थं चिनुत ।
  • १ कार्पण्यानिश्चितमति: = कृपणतावशात् अनिश्चितबुद्धि: ।
  • २ निस्सारलघुधनम् = सारहीनम् धनम् ।

८         समास:  विग्रह: च

  • १ निर्गता बाधा यस्या: सा – निर्बाधा ।
  • २ धान्येन समृद्धा: – धान्यसमृद्धा: ।
  • ३ विनय: शिलं यस्य स: – विनयशील: ।
  • ४ वृद्धान् उपसेवितुं शिलं यस्य स: – वृद्धोपसेवी ।
   ९  सन्धिकार्यम्    ( गृहकार्यम् )
देवाधिपति: देव + अधिपति: आ    दीर्घसन्धि:  
परीक्षितुम् परि + ईक्षितुम् ई     दीर्घसन्धि:  
इत्युक्त्वा इति + उक्त्वा उ   यण् सन्धि:  
गात्रेष्वपि गात्रेषु + अपि अ     यण् सन्धि:  
निधनैकनिष्ठम् निधन + एकनिष्ठम् ए   वृद्धि सन्धि:  
  • १०       समुचिताव्ययै: रिक्तपूरणम् । ( गृहकार्यम् )
    • एकदा भगवान् बोधिसत्व: राजा बभूव ।
    • तत्र अर्थिनां समुह: सन्तुष्ट: अभवत् ।
    • अथ कदाचित् दानशालासु विचरन् राजा अचिन्तयत् ।
    • ४ स: नगरस्य समन्तत: दानशाला: अकारयत् ।
    • यदि  भवान् प्रीत: तदा त्वत्त: एकस्य चक्षुष: दानम् इच्छामि ।

११      सर्वनामपदानां उचितरूपै: रिक्तस्थानपूरणम् ( गृ का )

  • स: बाल्यादेव वृद्धोपसेवी विनयशील: च आसीत् । ( तत् )
  • २ जनकल्याणकर्मसु रत: असौ पुत्रवत् प्रजा: पालयति स्म । ( अदस् )
  • ३ हे राजन् ! भवत: दानवीरताम् आकर्ण्य भवत्समीपम् आगतोऽस्मि । (भवत् )
  • ४ यदि भवान् प्रीत: तदा त्वत्त: एकस्य चक्षुष: दानम् इच्छामि ।( भवत् )

५ आर्तानां परित्राणाय एव मम निस्चय:।( अस्मद् )

१२ हलन्तशब्दानां समुचितरूपै: रिक्तस्थानपूरणम् ।(गृ का)

क ) राज्ञ: दानशीलताम् आकर्ण्य जना: तं देशम् आयान्ति स्म । ( राजन् )

२ अथ कदाचित् दानशालासु विचरन् राजा अचिन्तयत् । ( विचरत् )

३ ते दानवीरा: नूनं सौभाग्यशालिन: यान् याचका: शरीरस्य अङ्गानि याचन्ते । ( सौभाग्यशालिन् )

४ भगवन् ! आत्मानं अनुगृहीतं कर्तुम् इच्छामि ।  ( आत्मन् )

५ तत्र अर्थिनां समूह: अभीष्टवस्तूनि प्राप्य सन्तुष्ट: अभवत् । ( अर्थिन् )

  • समाप्तम्
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s