Grammer / व्याकरणम् – सन्धि:

 सन्धि:

 

    सन्धि: त्रिविधा भवति

   १  स्वरसन्धि: ।

    व्यञ्जनसन्धि: ।

     विसर्गसन्धि:  च ।

 १  स्वरसन्धि: ।

  • सन्धि: नाम का ?
  • द्वयो: वर्णयो: परस्परं मेलनेन य: विकार: जायतेएव सन्धि: उच्यते
  • स्वरसन्धिकार्ये पूर्वशब्दस्य अन्तिमस्वरेण सह परशब्दस्य प्रथमस्वरयोग: भवति
  • तत्र य: विकार: जायतेएव स्वरसन्धि: ।
  • उदाहरणै: वयम् अवगच्छाम: ।
  • जल + आशय:  = जलाशय: ।
  • अत्र जल इति शब्दस्य अन्तिम: स्वर: भवति ‘अ’आशय: इति पदस्य प्रथमवर्ण: अस्तिआ’ ।
  • अत्र द्वयो: आ वर्णयो: मेलनेन ‘आ’ स्वर: जायते
  • पुस्तक + आलय: = पुस्तकालय: ।
  • तथा + अपि = तथापि
  • हिम + आलय: = हिमालय: ।
  • जन्म +अपि = जन्मापि
  • ५ न +अधिकं = नाधिकम्अत्र सर्वत्रापि द्वयो: अ वर्णयो: मेलनेन ‘आ’ वर्ण: जायते
  • नदी + इति = नदीति ।  ई + इ  =  ई ।
  • इति + इव = इतीव । इ + इ = ई ।
  • तानि + इह = तानीह । इ + इ = ई  ।
  • सु + उक्ति: = सूक्ति: । उ + उ = ऊ ।
  • साधु + उक्तम् = साधूक्तम् । उ + उ = ऊ ।
  • तु + उवाच = तूवाच । उ + उ = ऊ ।
  • पितृ + ऋणम् = पितॄणम् । ऋ + ऋ = ॠ ।
  • मातृ + ऋणम् = मातॄणम् । ऋ + ऋ =ॠ ।
  • अत्र वयं पश्याम: यत् द्वयो: समानस्वरयो: योगेन समान: दीर्घस्वर: जायते इति
  • अयमेव दीर्घसन्धि: इति ज्ञातव्यम्

  दीर्घसन्धि: 

       अ / आ + अ / आ = आ

        इ / ई  + इ / ई   =  ई

         उ / ऊ  + उ / ऊ  = ऊ

         ऋ / ॠ + ऋ / ॠ = ॠ 

 गुणसन्धि:

  • न + इति = नेति । अ + इ = ए ।
  • तथा + इति = तथेति । आ + इ = ए ।
  • गण + ईश: = गणेश: । आ + ई = ए ।
  • यथा + उक्तम् = यथोक्तम् । आ +उ = ओ।
  • स + उदर: = सोदर: । अ + उ = ओ ।
  • तव + ऊह: = तवोह: । अ + ऊ = ओ ।

 

                                 अ / आ + इ / ई = ए।

                               अ / आ + उ / ऊ = ओ ।

                               अ / आ + ऋ / ॠ = अर्

 वृद्धिसन्धि :

  • सा + एव = सैव । आ + ए = ऐ  ।
  • न + एव = नैव । अ + ए  = ऐ ।
  • जल + ओघ: = जलौघ: । अ + ओ = औ ।
  • दिव + ओकस: = दिवौकस: । अ + ओ = औ ।
  • महा + औषधि : = महौषधि: । आ + औ =औ ।
  • अत्र अ / आ स्वरेण सह स्वरयोगे ‘ऐ’ इति जायते
  • अ / आ स्वरेण सह ओ / औ स्वरयोगे ‘ औ ’ इति जायते

 

                                     अ / आ  +  ए / ऐ  = ऐ ।

                                     अ  / आ  + ओ / औ = औ ।

यण् सन्धि:

  • इति + आदि = इत्यादि । इ + आ = या
  • नदी + अयम् = नद्ययम् । ई + अ = य ।
  • सु + आगतम् = स्वागतम्। उ + आ = वा
  • खलु + अत्र = खल्वत्र । उ + अ = व ।
  • ननु + एष = नन्वेष । उ + ए = वे
  • पितृ + अंश: = पित्रंश: । ऋ + अ = र ।
  • मातृ + ए = मात्रे । ऋ + ए = रे
  • इ / ई स्वरेण सह यदि अन्य: कोऽपि स्वर: योज्यते तत्र इ/ ई स्थाने य्इति परिवर्तनं भवति
  • उ / ऊ स्वरेन सह अन्य स्वरयोजने
  • उ / ऊ स्थाने व्इति जायते
  • स्वरेण सह अन्य स्वरयोजने स्थाने र्इतिजायते

 

                      इ / ई  +  अन्यस्वरा:  इ स्थाने   य्  ।

                     उ / ऊ + अन्यस्वरा:  उ स्थाने   व्  ।

                      ऋ  + अन्यस्वरा:  ऋ  स्थाने   र्  ।

अभ्यासकार्यम्

  • नित्य + आनन्द: = …………………
  • ब्रह्म + अण्डम् = …………………..
  • देव + इन्द्र : = …………………
  • देव + ऋषि: = ………………….
  • लोक + ईश: = …………………
  • क्षीर + ओदनम् = …………………
  • तिल + उदकम् = ……………….
  • ब्रह्म + ऋषि: = ………………..
    • नदी + अपि = …………………।
    • मधु + अरि: = ……………………।
    • पितृ + अंश: = ………………।
    • इति + इव = ………………।
    • गङ्गोदकम् = ………. + …………..।
    • नीलाम्बुजम् = ………. + ……….. ।
    • दिव्यौषधि: = …………. + …………….. ।
    • महेश्वर: = ………+ ………………. ।
    • वनौषधय: = ………… + …………. ।
    • स्वाधीनता = ………….. + ……………. ।
  •                                                     अयादिसन्धि:   ( केवलं दशमकक्षाया: कृते )
    • ने + अति = नयति । ए + अ =अय
    • ने + अनम् = नयनम् । ए + अ = अय
    • गै + अक: = गायक: । ऐ + अ = आय
    • नै + अक: = नायक: । ऐ + अ = आय
    • भो + अनम् = भवनम् । ओ + अ =अव
    • ६उभौ + अपि = उभावपि ।औ +अ =आव
    • तौ + अत्र = तावत्र । औ + अ = आव

  • अत्र वयं पश्याम: यत्   स्वरादनन्तरं यदि कोऽपि स्वर: भवति तदा स्थाने अय्इति जायते
    एवमेव स्वरादनन्तरं यदि कोऽपि स्वर: योज्यते तदा ‘ऐ’ स्थाने आय्इति जायते
    एवमेव  स्थाने  अव् तथा स्थाने आव् इत्यपि परिवर्तनं जायते
    अयमेव अयादिसन्धि: इति कथ्यते

अभ्यासकार्यम्

  • पौ + अनम् = ………………..।
  • ध्यै + अति = …………………।
  • नौ + अवतु = ……………….. ।
  • कवे + ए = …………………।
  • नौ + अधीतमस्तु = ………..….. ।
  • नै + इका = ………………… ।
  • प्रभो + अत्र = ……………… ।
  • गुरो + ए = …………….. ।

विशेषत: ध्यातव्यम् यत् अयादिसन्धि: प्रकृति-प्रत्यययो: मध्ये नित्यं भवति किन्तु द्वयो: शब्दयो: मध्येनित्यं किन्तु अय् आय् अव् आव् आदेशस्य अन्तिमवर्णस्य लोप: जायते
यथातौ + अत्र =तावत्र / ता अत्र
त् + +अ =त् + आव् + अ ।
अत्र आव् इत्यस्य व् वर्णस्य लोप: भवति
एवमेव ते + एव = तयेव / त एव
य् व् वर्णयो: लोपानन्तरं पुन: सन्धिकार्यंसम्भवति

 

 व्यञ्जनसन्धि:

  पूर्वशब्दस्य अन्ते व्यञ्जनं तत: परं स्वरो वा व्यञ्जनं वा यदि भवति तदा व्यञ्जनस्य परिवर्तनं जायते

एष: व्यञ्जनसन्धि: कथ्यते

 उदाहरणैअवगच्छाम: ।

 वाक् + ईश: = वागीश: ।

 तत् + अर्थम्  = तदर्थम्

 अच् + वर्ण:  = अज्वर्ण: ।

  ट् + आनन:  = डानन: ।
दिक् + गज:  = दिग्ग: ।
ट्  + दर्शनम्  = ड्दर्शनम्
स्वर्गात् + अपि = स्वर्गापि
वाक् + देवता = वाग्देवता
त् + आचार: = दाचार: ।
अत्र प्रथमशब्दस्य अन्ते विद्यमान: वर्गीयप्रथमाक्षरसमानवर्गस्य तृतीयाक्षरे परिवर्तितं पश्याम: ।

              नियम:  [ झलां जश् झशि ]

  • वर्गीय प्रथमाक्षरादनन्तरं यदि स्वरो वा मृदुव्यञ्जनं  भवति तदा प्रथमाक्षरस्य स्थाने
  • तस्यैव वर्गस्य तृतीयाक्षर: जायते ।
  • मृदुव्यञ्जनम् तदेव भवति वर्गीय-तृतीय –चतुर्थ- पञ्चमाक्षरा: तथा य्  व्  र्  ल्  ह्  एते वर्णा: ।

प्रथमाक्षर:                  द्वितीयाक्षर:                  तृतीयाक्षर:                   चतुर्थाक्षर:                 पञ्चमाक्षर:

क्

ख् ग् घ् ङ्
           च्              छ्             ज्               झ्               ञ्
           ट्              ठ्             ड्              ढ्               ण्
           त्              थ्            द्              ध्              न्
प् फ् ब्

भ्

              म्
  •              त् वर्णस्य च् वर्णे परिवर्तनम् ।
  • सत् + चित् = सच्चित्
  • एतत् + चित्रम् = एतच्चित्रम्
  • शरत् + चन्द्र: = शरच्चन्द्र: ।
  • अन्यत् + च = अन्यच्च
  • सत् + चिन्ता = सच्चिन्ता
  • तत् + चिन्तयित्वा = तच्चिन्तयित्वा
  • अत्र वयं पश्याम: यत् त् वर्णादनन्तरं यदि   च्   वर्ण: भवति तदा   त्  स्थाने अपि  च् इति जायते

 

त् वर्णस्य ल् वर्णे परिवर्तनम्

  • तत् + लाङ्गूलम् = तल्लाङ्गूलम् ।
  • तत् + लय: = तल्लय: ।
  • उत् + लास: = उल्लास: ।
  • उत् + लिखितम् = उल्लिखितम् ।
  • तत् + लीन: = तल्लीन: ।
  • महत् + लाभ: = महल्लाभ: ।
  • अत्र वयं पश्याम: यत् त्  वर्णादनन्तरं यदि
  • ल् वर्ण: भवति तदा त् स्थाने अपि ल्   इति जायते।

 

विसर्गसन्धि:

 

  विसर्गस्य अन्यवर्णेन सह मेलने य: विकार: जायतेएव विसर्गसन्धि: कथ्यते

विसर्गस्य परिवर्तनं   उत्वं , रत्वम् ,विसर्गलोप:, स् ,श् ,ष् वर्णेषु परिवर्तनं  इति षट् प्रकारकं भवति

  राम:  + अपि  = राम  [ उ ] अपि  । रामो ऽपि

  स:  +  अचिन्तयत्  = सोऽचिन्तयत्

  एष:  + अवदत्  = एषोऽवदत्

  कृष्ण:  + अयं   = कृष्णोऽयम्  ।

  रावण:  +असौ  = रावणोऽसौ

अत्र सर्वत्र वयं पश्याम: यत् ‘अ’ स्वरात् परं विसर्ग: तदनन्तरं च ‘अ’ यदा भवति तदा विसर्गस्य स्थाने ‘उ’ जायते । अ + उ मिलित्वा च ‘ओ’ जायते ।द्वितीयशब्दस्य आदौ य: ‘अ’  भवति स: च ‘ऽ’ इति चिह्नं जायते ।

  • अ: + अ = ओऽ इति जायते

अ: + मृदुव्यञ्जनं = विसर्गस्य स्थाने ‘उ’

  • गोपाल: + वदति = गोपालो वदति
  • धर्म: + विजयते = धर्मो विजयते
  • वृक्ष: + वर्धते = वृक्षो वर्धते
  • बालक: + नृत्यति = बालको नृत्यति
  • छात्र: + गच्छति = छात्रो गच्छति
  • शिष्य: + नमति = शिष्यो नमति
  • सिंह: + गर्जति = सिंहो गर्जति
  • परोपकार: + भवति = परोपकारो भवति

अत्र अ वर्णात् परं विसर्ग: तत: परं मृदुव्यञ्जनं चास्ति ।

तदा विसर्गस्य स्थाने  ‘उ’ , द्वयो: योजनेन ‘ओ’ च जायते इति द्रष्टुं शक्नुम: ।

  • ‘आ’ स्वरादनन्तरं यदि स्वरो वा मृदुव्यञ्जनं भवति तदा विसर्गस्य लोप: जायते ।
  • छात्रा: + आगच्छन्ति = छात्रा आगच्छन्ति ।
  • सेवका: + अपि = सेवका अपि ।
  • जना: + गच्छन्ति = जना गच्छन्ति ।
  • बाला: + हसन्ति = बाला हसन्ति ।

सज्जना:  + वदन्ति = सज्जना  वदन्ति ।

विसर्गात् परं क ख प फ इति वर्णे आगते
विसर्गस्य किमपि परिवर्तनंजायते

  • सकला: + क्रिया: = सकला: क्रिया: ।
  • वृक्षा: + फलन्ति = वृक्षा: फलन्ति
  • अत: + परं = अत: परम्
  • जना: + परस्परम् = जना: परस्परम्
  • छात्र: + खेलति = छात्र: खेलति
  • अत्र सर्वत्रापि विसर्गादनन्तरं प् / फ / क् / ख् /
  • इत्येतेषु कोऽपि वर्ण: अस्ति परं सन्धिकार्यम्
  • नास्ति

                     विसर्गस्य स्थानेश्

  • विसर्गादनन्तरं यदि श् / च् / छ् / एतेषु कोऽपि वर्ण: भवति तदा विसर्गस्य स्थाने श् जायते
  • हरि: + शेते = हरिश्शेते
  • मणिका: + चिनोति = मणिकाश्चिनोति
  • राम: + च = रामश्च
  • वृक्षा: + छिद्यन्ते = वृक्षाश्छिद्यन्ते
  • तनु: + च = तनुश्च
  • वेपथु: + च = वेपथुश्च
  • धनिका: + च = धनिकाश्च

विसर्गस्य स्थाने ष्

  • विसर्गादनन्तरं यदि ष् / ट् / ठ्  इत्येतेषु कोऽपि वर्ण: भवति तदा विसर्गस्य स्थाने  ष्  जायते
  • पुत्र: + षष्ठ: = पुत्रष्षष्ठ: ।
  • रूप्यकै: + ठन् ठनायते = रूप्यकैष्ठन्ठनायते
  • पुन: + टीकते = पुनष्टीकते

विसर्गस्य स्थाने  स्

  • विसर्गादनन्तरं यदि स्  / त्  / थ्   इत्येतेषु कोऽपि वर्ण: भवति तदा विसर्गस्य स्थाने   ‘स्  जायते
  • इत: + तत: = इतस्तत: ।
  • धीर: + तत्र = धीरस्तत्र  ।
  • अत: + त्वाम् = अतस्त्वाम्  ।
  • पितु: + समीपे = पितुस्समीपे
  • मातु: + सविधे = मातुस्सविधे
  • सर: + तीरे = सरस्तीरे  ।
  • विप्र: + तथाविधम् = विप्रस्तथाविधम्  ।
  •                           अव्ययसम्बन्धि नियम:  ।
    • प्रात: पुन: इति द्वाभ्यां अव्ययाभ्यां सह य: विसर्गतस्य स्थाने सदैव र्इत्येव परिवर्तनं भवति
    • प्रात: + एव  /  अपि  / गच्छति  / वदति
    • प्रातरेव / प्रातरपि  / प्रातर्गच्छति / प्रातर्वदति
    • पुन: + अपि / एष:  / इयं  / आयाति  / वदामि
    • पुनरपि / पुनरेष  / पुनरियम्  / पुनरायाति
    • पुनर्वदामि

 अभ्यासकार्यम्   । अध: प्रदत्तानां सन्धिं वा विच्छेदं कुरुत ।

    • तत: + च
    • इन्द्रिया: + च
    • भवद्भि: + च
    • सप्तर्षिभि: + साकम्
    • उच्चै: + टङ्कार:
    • मनुष्यै: + सह
    • शूरश्च
    • देवतास्तथा
    • कृतिस्तव

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s