दशमकक्षा

अशुद्धिसंशोधने श्रद्धेया: कार्या: ।
१ अशुद्धि: लकार वचन विभक्ति कार्येषु भवेत् ।
२ वाक्यं सम्यक् पठित्वा कुत्र अशुद्धि: इति अवगन्तव्यम् ।
३ उपपदविभक्ति आधारेण अपि अशुद्धि: स्यात् ।
४ विशेषणविशेष्यानि समानलिङ्ग वचन विभक्ति युक्तानि भवेयु: ।
५ वाक्ये प्रयुक्तानां अव्ययपदानां ( अद्य , ह्य: , श्व: , आगामिमासे वा सप्ताहे , पुरा , अधुना इत्यादि )कालमधिकृत्य उचितलकारेषु वाक्यशुद्धि: कर्तव्य: ।
६ वाक्ये कर्तृ-क्रिया योगे अपि अशुद्धि: स्यात् ।
७ यदि अशुद्धि: स्थूलाक्षररूपेण वा अधोरेखाङ्कितरूपेण सूचित: तर्हि स एव शब्द: परिवर्तनीय: ।

एतानि वाक्यानि शुद्धीकुरुत ।
१ पुरा शुद्धोदन: नाम राजा अस्ति ।
२ अद्य अहं पाठं न पठिष्यामि ।
३ सर्वा: बालका: क्रीडाक्षेत्रे क्रीडन्ति ।
४ अद्य अधिकं वृष्टि: भवति ।
५ ह्य: रात्रौ वयं सिनिमां द्रष्टुम् गच्छाम: ।
६ इदं उद्यानं अतीव सुन्दर: अस्ति ।
७ आवां एकस्मिन् एव विद्यालये पठत: ।
८ अहमपि तव गृहं आगच्छति ।
९ अध्यापकस्य सह छात्रा: विनोदयात्रायै गता: ।
१० ते सर्वे ग्रामस्य प्रति अगच्छन् ।
११ नम: शिवम् ।
१२ स: विद्यालयस्य बहि: तिष्ठति ।
१३ ग्रामस्य उभयत: नद्यौ वहत: ।
१४ सूर्य: प्रतिदिनं पूर्वदिशायामेव उदेष्यति ।
१५ आगामिमासस्य चतुर्विंशति तारिकायां मम भ्रातु: विवाह: आसीत् ।

चित्रवर्णनम् श्रद्धेया: कार्या:
चित्रवर्णनम्
चित्रवर्णने किं किं कार्यम् श्रद्धेयम् ?
१ चित्रवर्णने केवलं प्रथमपुरुष संज्ञापदानां एव प्रयोग: भवति ।
२ क्रिया अपि एवमेव प्रथमपुरुषे एव प्रयुज्यते ।
३ क्रिया सर्वदा लट् लकारे एव भवति ।
४ संज्ञापदं क्रियापदं च वचनानुसारं योजयेत् ।
५ विशेषण विशेष्यपदानि समान लिङ्ग विभक्ति सहितानि स्यु: ।
६ चित्रे यत् विद्यते इति निरीक्ष्य , सहायकशब्दानां प्रयोग: करणीय: ।
७ प्रत्येकं वाक्ये प्रदत्तशब्देभ्य: एक: शब्द: अवश्यं प्रयोक्तव्य: ।
८ प्रदत्तशब्दानं वचनपरिवर्तनम् वा विभक्तिपरिवर्तन छात्रा: कर्तुं शक्यन्ते ।
९ वाक्यानि सरलानि लघूनि अर्थयुक्तानि तथा शुद्धानि भवेयु: ।

******************************************************

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s